RBSE Class 12 Sanskrit vyaakaranam sandhipreekaranam ( व्याकरणम् सन्धिप्रकरणम्)

RBSE Class 12 Sanskrit व्याकरणम् सन्धिप्रकरणम्


पाठ्यपुस्तक के प्रश्नोत्तर

(क) वस्तुनिष्ठप्रश्नाः

प्रश्न 1.
जश्त्वसन्धेः उदाहरणम् अस्ति-
(क) षण्मुखः
(ख) सच्चित्
(ग) वागीशः
(घ) मनोहरः
उत्तर:
(ग) वागीशः

प्रश्न 2.
ष्टुत्व सन्धेः उदाहरणम् अस्ति
(क) तट्टीका
(ख) रामशेते
(ग) तन्मयः
(घ) हरिं वन्दे
उत्तर:
(क) तट्टीका

प्रश्न 3.
‘इतस्ततः’ इति शब्दे सन्धिः अस्ति –
(क) व्यंजनसन्धिः
(ख) अच्सन्धिः
(ग) विसर्गलोपसन्धिः
(घ) विसर्गसन्धिः
उत्तर:
(घ) विसर्गसन्धिः

प्रश्न 4.
‘शिवोऽर्व्यः’ इति शब्दे सन्धिः अस्ति
(क) टुत्व सन्धिः
(ख) चर्वसन्धिः
(ग) उत्वसन्धिः
(घ) सत्वसन्धिः
उत्तर:
(ग) उत्वसन्धिः

प्रश्न 5.
अनुस्वारसन्धेः उदाहरणम् अस्ति
(क) विद्वाँल्लिखति
(ख) हरिं वन्दे
(ग) कश्चित्
(घ) नमस्ते
उत्तर:
(ख) हरिं वन्दे

(ख) निम्नलिखितपदेषु सन्धिविच्छेदः कर्तव्यः
RBSE Class 12 Sanskrit व्याकरणम् सन्धिप्रकरणम् 1

प्रश्न (ग)
निम्नलिखितपदेषु सन्धिविच्छेदं कृत्वा सन्धेः नाम लेखनीयम्
उत्तर:
RBSE Class 12 Sanskrit व्याकरणम् सन्धिप्रकरणम् 2

प्रश्न (घ)
अधोलिखितपदेषु सन्धिकार्यं कुरुत
उत्तर:
RBSE Class 12 Sanskrit व्याकरणम् सन्धिप्रकरणम् 3

प्रश्न (ङ)
‘क’ खण्डं ‘ख’ खण्डेन सह योजयत्।
RBSE Class 12 Sanskrit व्याकरणम् सन्धिप्रकरणम् 4
उत्तर:
RBSE Class 12 Sanskrit व्याकरणम् सन्धिप्रकरणम् 5
RBSE Class 12 Sanskrit व्याकरणम् सन्धिप्रकरणम् 6

अन्य महत्त्वपूर्ण प्रश्नोत्तर

वस्तुनिष्ठप्रश्नाः
प्रश्न 1.
श्चुत्वसन्धेः उदाहरणम्
(क) ततश्चौर
(ख) जगन्नाथः
(ग) शङ्का
(घ) सज्जनः
उत्तर:
(क) ततश्चौर

प्रश्न 2.
‘सन्धिः शब्दे मूलधातुः वर्तते-
(क) धृ
(ख) सम्
(ग) डुधाञ्
(घ) धाव
उत्तर:
(ग) डुधाञ्

प्रश्न 3.
वर्णानाम् अत्यन्तनिकटता कथ्यते
(क) सन्धिः
(ख) संहिता
(ग) विच्छेदः
(घ) समाहारः
उत्तर:
(ख) संहिता

प्रश्न 4.
वर्णसन्धानं कथ्यते-
(क) समासः
(ख) विग्रहः
(ग) वर्णस्फोटः
(घ) सन्धिः
उत्तर:
(घ) सन्धिः

प्रश्न 5.
‘कश्चित् पदे प्रयुक्तसन्धेः नाम वर्तते
(क) श्चुत्वसन्धिः
(ख) जश्त्वसन्धिः
(ग) चवसन्धिः
(घ) उत्वसन्धिः
उत्तर:
(क) श्चुत्वसन्धिः

प्रश्न 6.
हरये’ इति पदे प्रयुक्तसन्धेः नाम वर्तते
(क) दीर्घसन्धिः
(ख) अयादिसन्धिः
(ग) यसन्धिः
(घ) वृद्धिसन्धिः
उत्तर:
(ख) अयादिसन्धिः

प्रश्न 7.
‘कपि + ईशः’ इत्यस्य सन्धियुक्तपदम् अस्ति
(क) कपेशः
(ख) कपिशः
(ग) कपीशः
(घ) कप्येशः
उत्तर:
(ग) कपीशः

अतिलघूत्तरात्मक प्रश्नाः

प्रश्न 1.
अधोलिखितेषु पदेषु सन्धिविच्छेदं कृत्वा सन्धेः नामापि लिखत-
उत्तर:
RBSE Class 12 Sanskrit व्याकरणम् सन्धिप्रकरणम् 7

प्रश्न 2.
निम्नलिखितपदानां सन्धि-विच्छेदं कृत्वा सन्धेः नाम अपि लिखत।
उत्तर:
RBSE Class 12 Sanskrit व्याकरणम् सन्धिप्रकरणम् 8

प्रश्न 3.
निम्नलिखितशब्दानां सन्धिं कृत्वा सन्धेः नाम अपि लिखत।
उत्तर:
RBSE Class 12 Sanskrit व्याकरणम् सन्धिप्रकरणम् 9

प्रश्न 4.
अधोलिखितेषु पदेषे सन्धिविछेदं कृत्वा सन्धेः नामापि लेखनीयम्
(i) इष्टः
(ii) सत्पुत्रः
(iii) यस्तु
उत्तर:
RBSE Class 12 Sanskrit व्याकरणम् सन्धिप्रकरणम् 10
RBSE Class 12 Sanskrit व्याकरणम् सन्धिप्रकरणम् 11

प्रश्न 5.
अधोलिखितेषु पदेषु सन्धिं कृत्वा तस्य नामापि लिखत

  1. दिक् + गजः
  2. यशः + दा
  3. निः + चलः।

उत्तर:

  1. दिग्गजः, जश्त्वसन्धिः।
  2. यशोदा, उत्वसन्धिः।
  3. निश्चलः, सत्वसन्धिः

प्रश्न 6.
अधोलिखितेषु पदेषु सन्धिविच्छेदं कृत्वा सन्धेः नामापि लेखनीयम्
(i) उज्जवलः
(ii) दिगम्बरः
(iii) हरिं वन्दे
उत्तर:
RBSE Class 12 Sanskrit व्याकरणम् सन्धिप्रकरणम् 12

प्रश्न 7,
अधोलिखितेषु पदेषु सन्धिं कृत्वा तस्य नामापि लिखत

  1. धनुः + टंकारः
  2. रामः + अयम्
  3. मनः + हारः।

उत्तर:

  1. धनुष्टंकारः, सत्वसन्धिः
  2. रामोऽयम्, उत्वसन्धिः
  3. मनोहरः, उत्वसन्धिः।

प्रश्न 8.
अधोलिखितेषु पदेषु सूत्रनिर्देशपूर्वकं सन्धिविच्छेदं कुरुत।
उत्तर:
RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 14 पितामही मिलिता 11
RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 14 पितामही मिलिता 12

प्रश्न 9.
अधोलिखितेषु पदेषु सूत्रनिर्देशपूर्वकं सन्धिं कुरुत।
उत्तर:
RBSE Class 12 Sanskrit vyaakaranam sandhipreekaranam
RBSE Class 12 Sanskrit vyaakaranam sandhipreekaranam

लघूत्तरात्मकप्रश्नाः

प्रश्न 1.
सादृश्यं कतिविधं भवति? तेषां नामानि लिखत।
उत्तर:
सादृश्यं चतुर्विधं भवति–
(i) स्थानकृतम्,
(i) अर्थकृतम्,
(ii) प्रमाणकृतम्,
(iv) गुणकृतम् च।।

प्रश्न 2.
‘इको यणचि’ सूत्रस्थ इक्, यण, अच् प्रत्याहारान्तर्गतान् वर्णान् लिखत।
उत्तर:
RBSE Class 12 Sanskrit vyaakaranam sandhipreekaranam

प्रश्न 3.
‘तस्मिन्निति निर्दिष्टे पूर्वस्य’ सूत्रस्थ-‘तस्मिन्’ पदं स्पष्टयत।
उत्तर:
यत्र सप्तम्यन्तपदेन कस्यचिदपि कार्यस्य निर्देशः भवति तत्र तत्कार्यं व्यवधानरहितस्य पूर्ववर्णस्य स्थाने भवति। तस्मिन्’ पदस्याशयः सप्तमीनिर्देशेन विधीयमानं कार्यम्’ इति वर्तते।

प्रश्न 4.
‘संयोगान्तस्य लोपः’ इति सूत्रे ‘संयोगान्त’ पदं स्पष्टयत।
उत्तर:
‘संयोगान्त’ पदस्याशयः वर्तते यत् यस्य पदस्य अन्ते संयोगसंज्ञकाः वर्णाः दृश्यन्ते, तत् पदं संयोगान्तम् कथ्यते। यथा ‘सु द् ध् य्’ इति संयोगान्तपदं वर्तते।

प्रश्न 5.
‘यथासंख्यमनुदेशः समानाम् सूत्रस्य वृत्तिं विलिख्य स्पष्टरूपेण विवेचनं कुरुत।।
उत्तर:
यत्र स्थानिनः आदेशस्य च संख्या समाना भवति तत्र कार्यविधानं संख्यानुसारमेव भवति। यथा ‘एचोऽयवायावः’ इति सूत्रे ‘ए’ स्थानिनः आदेशस्य च संख्या समाना वर्तते, अतः ए, ओ, ऐ, औ वर्णानां स्थाने क्रमशः अय्, अव्, आय्, आव् आदेशाः भवन्ति।

प्रश्न 6.
‘अध्वपरिमाणे च’ वार्तिकं सोदाहरणं स्पष्टयत।
उत्तर:
मार्गस्य परिमाणे गम्यमाने (ज्ञाते) सति ओकारस्य स्थाने वान्तः (अव्) आदेशः भवति। यथा

गव्यूतिः ( क्रोशद्वयम्)-‘गो + यूतिः’ इत्यत्र मार्गपरिमाणस्य ज्ञानं भवति, अतएव *गो’ इत्यस्य ओकारस्य स्थाने अवादेशः भवति।।

प्रश्न 7.
एच् प्रत्याहारे के वर्णाः सन्ति तेषां क्रमशः आदेशान् लिखत।
उत्तर:
एच् प्रत्याहारे क्रमशः ‘ए, ओ, ऐ, औ’ इति चत्वारः वर्णाः भवन्ति। ऐतेषां वर्णानां स्थाने क्रमशः अय्, अव्, आय्, आव् आदेशाः भवन्ति।

प्रश्न 8.
वान्तो यि प्रत्यये, अध्वपरिमाणे च अनयोः प्रयोजनं स्पष्टयत।
उत्तर:
संहिताविषये यत्र ओकार-औकारयोः पश्चात् यकारादिः प्रत्ययः भवति तत्र ‘वान्तो यि प्रत्यये’ सूत्रेण ओकार-औकारयोः स्थाने क्रमशः अव् आव् आदेशौ। भवतः। यथा- गो + यम् = गव्यम्। नौ + यम् = नाव्यम्। किन्तु मार्गस्य परिमाणे ज्ञाते सति ‘अध्वपरिमाणे’ इति वार्तिकेन ओकारस्य स्थाने अवादेशः भवति। यथा-गो. + यूतिः = गव्यूतिः (क्रोशद्वयम्)।

प्रश्न 9.
‘उपदेश’ पदस्य कोऽर्थः? सम्बद्ध सूत्रनिर्देशपूर्वकं विवेचनं कुरुत।
उत्तर:
उपदेशस्यार्थः भवति-पाणिनि अनुयायिभिः उपदिष्टः। सूत्रमस्ति‘उपदेशेऽजनुनासिक इत्’-अर्थात् पाणिनि अनुयायिभिः प्रतिज्ञातस्य उपदिष्टस्य अनुनासिकस्वरवर्णस्य इत्संज्ञा भवति। यथा ‘लण्’ सूत्रे अकारस्य इत्संज्ञायां ‘र ल्’ इत्यनर्योः ग्रहणं भवति।।

प्रश्न 10.
‘अनुनासिकस्य स्वरस्य ज्ञानं कथं भवति’-विवेचनं कुरुत।
उत्तर:
पूर्वकाले अनुनासिकस्वरस्य ज्ञानं (*) चिह्न भवति स्म। सम्प्रति एवंविधः पाठः न उपलभ्यते। फलतः इयं व्यवस्था अस्ति यत् स्वरवर्णानां इत्संज्ञां कर्तुं तेषाम् अनुनासिकरूपेण प्रतिभा भवति। यथा लण्सूत्रस्थ ‘अ’ वर्णेन सह उच्चार्यमाणे रेफो रलयोः संज्ञा भवति।

प्रश्न 11.
‘तपरस्तत्कालस्य’ सूत्रे ‘तपर’ पदस्य व्याख्यानं कुरुत।
उत्तर:
तः = तकारः परः यस्मात् वर्णात् असौ तपरः। यथा-‘अदेङ् गुणः’. सूत्रे ‘अत्’ इत्यत्र अवर्णात् परः तकारः। अत्र तकारात् परः तपरः। ए ओ इति तकारात् परः अस्ति, अतएव तपरः। अर्थात् येस्मात् वर्णात् परः तकारः अस्ति तथा च तकारात् परः यः वर्णः अस्ति, सः स्वकाल (मात्रा) सदृशकालस्य बोधकंः भवति।

प्रश्न 12.
‘पूर्वत्रासिद्धम् सूत्रस्य स्पष्टरूपेण विवेचनं कुरुत।
उत्तर:
सपादसप्ताध्यायीस्थं सूत्रं प्रति त्रिपाद्यन्तर्गतं सूत्रम् असिद्धं भवति। त्रिपाद्याम् अपि पूर्वसूत्रं प्रति परसूत्रम् असिद्धं भवति। अर्थात् पूर्वं यत्कार्यं जातं तत्र यदि अन्यस्य सूत्रस्य प्रवृत्तिः भवति तदा पुनः तत् पूर्व एव कार्यम् उपस्थितं भवति। अयमेव असिद्धपदस्य अर्थः।

प्रश्न 13.
‘वृद्धिरादैच्’ इत्यत्र तपरकरणस्य प्रयोजनं स्पष्टयत।
उत्तर:
आत् ऐच्च वृद्धिसंज्ञः स्यात्। पाणिनीयव्याकरणस्य इदं सर्वप्रथमं सूत्रं। वर्तते। अस्मिन् सूत्रे पूर्वं वृद्धिपदपाठः मङ्गलार्थः अस्ति। इत्थं ‘आ ऐ औ’ इति एषां। त्रयाणां स्वरवर्णानां वृद्धिसंज्ञा भवति।

प्रश्न 14.
‘वृद्धिरेचि’ इति सूत्रम् आद्गुणः इत्यस्य बाधकम् अस्ति-स्पष्टयते।
उत्तर:
‘आद्गुणः’ सूत्रेण तु अवर्णात् अचि परे पूर्वपरयोः एकः गुणादेशः भवति, किन्तु वृद्धिरेचि’ इतिसूत्रेण अवर्णात् एचि परे पूर्वपरयोः स्थाने वृद्धिरूपः एकादेशः भवति। अतएव इदं सूत्रम् ‘आद्गुणः’ इति सूत्रस्य बाधकम् अस्ति।

प्रश्न 15.
‘वार्तिकस्य लक्षणं लिखत।
उत्तर:
लक्षणम्

उक्तानुक्तदुरुक्तानां चिन्ता यत्र प्रवर्तते।।
तं ग्रन्थं वार्तिकं प्राहुः वार्तिकज्ञाः मनीषिणः॥

प्रश्न 16,
उपसर्गसंज्ञा कदा भवति? कति च उपसर्गाः सन्ति, इति सूत्रनिर्देशपूर्वकं लिखत।।
उत्तर:
उपसर्गाः क्रियायोगे अर्थात् यत्र प्रादीनां क्रियया सह योगः (सम्बन्धः) भवति तदा ते प्रादयः उपसर्गसंज्ञकाः भवन्ति। उपसर्गाः द्वाविंशतिः सन्ति प्र, परा, अप, सम्, अनु, अव, निस्, निर्, दुस्, दुर्, वि, आङ् नि, अधि, अपि, अति, सु, उद्, अभि, प्रति, परि, उप।

प्रश्न 17.
प्रादिगणे कति अजन्ताः कति च हलन्ताः शब्दाः सन्ति? लिखत।
उत्तर:
प्रादिगणे पञ्चदश अजन्ताः शब्दाः सन्ति-प्र, परा, अप, अनु, अव, वि, नि, अधि, अपि, अति, सु, अभि, प्रति, परि, उप।
प्रादिगणे सप्त हलन्ताः शब्दाः सन्ति-सम्, निस्, निर्, दुस्, दुर्, आङ्, उद्।

प्रश्न 18.
‘एकादेशः’ इत्यस्य कोऽर्थः? सोदाहरणं विवेचनं कुरुत।
उत्तर:
संहिताविषये यत्र पूर्वपरयोः वर्णयोः स्थाने एकवर्णस्य आदेशः भवति, सः एकादेशः कथ्यते। यथा-रमेशः = रमा + ईशः, इत्यत्र ‘आ + ई’ इति पूर्वपरयोः वर्णयोः स्थाने ‘ए’ एकादेशः भवति।।

प्रश्न 19.
पररूपपूर्वरूपयोः अर्थं स्पष्टयत।
उत्तर:
यत्र पूर्वपरयोः द्वयोः वर्णयोः स्थाने पररूपमेकादेशः भवति, तत् पररूपं। कथ्यते, यथा-‘प्र + एजते’ इत्यत्र ‘अ + ए’ इति पूर्वपरयोः स्थाने पररूपम् ‘ए’ भवति।

यत्र चे पूर्वपरयोः द्वयोः वर्णयोः स्थाने पूर्वरूपमेकादेशः भवति, तत् पूर्वरूपं कथ्यते, यथा-‘हरे + अव’ इत्यत्र ‘ए + अ’ इति पूर्वपरयोः स्थाने पूर्वरूपम् ‘ए’ भवति।

प्रश्न 20.
टिसंज्ञाविधायकं सूत्रं सोदाहरणम् व्याख्यायताम्।
उत्तर:
‘अचोऽन्त्यादि टि”-अर्थात् अचां मध्ये (स्वरसमुदाये) यः अन्तिमः अच् (स्वरः) भवति, स यस्य वर्णस्य आदौ भवति तस्य वर्णसमुदायस्य टिसंज्ञा भवति। यथा ‘मनस्’ इत्यत्र प्रकृतसूत्रेण ‘अस्’ इत्यस्य टिसंज्ञा भवति।

प्रश्न 21.
‘कुल + अटा’ इत्यत्र ‘अकः सवर्णे दीर्घः सूत्रस्य प्रवृत्तिः कथं न भवति?
उत्तर:
‘शकन्भ्वादिषु पररूपं वाच्यम्’ इति वार्तिकेन ‘कुल + अटा’ इत्यत्र ‘अकः सवर्णे दीर्घः’ इति सूत्रेण प्राप्तं सवर्णदीर्घस्य बाधः भवति, यतोहि ‘कुलटा’ शब्दः शकन्भ्वादिषु गणे भवति, अतः अकारस्य टिसंज्ञा भूत्वाऽत्र द्वयोः अवर्णयोः स्थाने अनेन वार्तिकेन पररूपम् एकादेशः भवति।

प्रश्न 22,
‘अन्तादिवच्च’ सूत्रस्य अर्थं सोदाहरणं लिखत।।
उत्तर:
पूर्वपरयोः वर्णयोः यः एकः आदेशः भवति स आदेशः पूर्ववर्णस्य कृते तु अन्तवत् परवर्णस्य च कृते आदिवत् भवति। यथा-शिवेहि-‘शिव + एहि’ इति दशायाम् अन्तादिवच्च’ इति सूत्रसहकारेण ‘ओमाहेश्च’ इत्यनवेन पररूपे एकादेशे कृते शिवेहि रूपं सिद्धं भवति।

प्रश्न 23.
अधोलिखित सन्धिपदानां प्रमुखं सूत्रम् लिखत-
(क) धनुषी एते।
(ख) अमी अश्नन्ति
(ग) ऋतू अतीती।
(घ) कुले इमे।
उत्तर:
RBSE Class 12 Sanskrit vyaakaranam sandhipreekaranam

प्रश्न 24.
‘हरी एतौ’ इत्यत्र ईदन्त द्विवचनान्तं किम्? लिखत।।
उत्तर:
हरी एतौ’ इत्यत्र ‘हरी’ पदम् ईदन्त द्विवचनान्तम् अस्ति। यतो ‘हरी’ इति पदम् द्विवचनस्य रूपमस्ति तथा ‘ईकारान्तं वर्तते।

प्रश्न 25.
व्याकरणशास्त्रे ‘प्रकृतिभावः’ पदस्य कोऽर्थः? स्पष्टरूपेण विवेचन कुरुत।
उत्तर:
‘प्रकृतिभावः’ पदस्य अर्थः वर्तते यत् पदस्य यः स्वरूपं भवति तथैव स्यात्। केनापि सूत्रेण संहिताविषये यत् परिवर्तनं प्राप्तं भवति तस्य बाधः भूत्वा पूर्वस्वरूपमेव भवति। यथा ‘विष्णू इमौ’-विष्णू + इमौ इत्यत्र ‘इको यणचि’ सूत्रेण प्राप्त यणस्य बाधं भूत्वा ‘ईदूदे’ सूत्रेण प्रगृह्यासंज्ञा तथा ‘प्लुतप्रगृह्या अचि नित्यम्’ सूत्रेण प्रकृतिभावं कृत्वा पूर्ववत् ‘विष्णू इमौ’ इति रूपमेव सिद्धयति।

प्रश्न 26.
‘सर्वत्र विभाषा गोः’ अस्मिन् सूत्रे ‘सर्वत्र’ पदस्य कोऽर्थः? लिखत।
उत्तर:
अस्मिन् सूत्रे ‘सर्वत्र’ पदस्य अर्थः वर्तते यत् लोके वेदे च अर्थात् लोके शास्त्रीयप्रक्रियायां वैदिकप्रक्रियायाम् च।

प्रश्न 27.
‘अनेकाल्शित्सर्वस्य’ सूत्रे ‘शित्’ पदस्य अर्थं स्पष्टयत।
उत्तर:
अस्मिन् सूत्रे ‘शित्’ पदस्यार्थः भवति यत् ‘यस्य शकारः इत्संज्ञकः। भवति’ इति। यथा ‘जस्’ प्रत्ययः ‘शित्’ भवति।।

प्रश्न 28.
अधोलिखितपदेषु ससूत्रं सन्धिं स्पष्टयत
(क) अहो आश्चर्यम्।
उत्तर:
‘अहो + आश्चर्यम्’ इति दशायां ‘अहो’ इति ओकारान्तः निपातः अस्ति, अतः ‘ओत्’ सूत्रेण ‘अहो’ पदस्य प्रगृह्यसंज्ञा तथा च “प्लुतप्रगृह्या अचि नित्यम्’ सूत्रेण प्रकृतिभावः भूत्वा ‘अहो आश्चर्यम्’ इति रूपं सिद्धम् भवति।

(ख) इ इन्द्रं पश्य
उत्तर:
‘इ इन्द्रं पश्य’ इत्यत्र ‘इ’ एकाच् निपातस्य ‘निपात एकाजनाङ्’ सूत्रेण प्रगृह्य संज्ञा तथा च ‘प्लुतप्रगृह्या अचि नित्यम्’ सूत्रेण प्रकृतिभावं भूत्वा ‘इ इन्द्रं पश्य’ रूपं सिद्ध्यति।।

(ग) किमु आवपनम्
उत्तर:
‘किमु + आवपनम्’ इत्यत्र ‘चादयोऽसत्वे’ इति सूत्रेण निपातसंज्ञा तथा च ‘प्लुतप्रगृह्या अचि नित्यम्’ सूत्रेण प्रकृतिभावं भूत्वा ‘किमु आवपनम्’ रूपं सिद्धं भवति।

(घ) शम्भो इति
उत्तर:
‘शम्भो + इति’ इति दशायां ”सम्बुद्धौ शाकल्यस्येतावनार्षे” सूत्रेण ‘ओ’ वर्णस्य प्रगृह्यसंज्ञा तथा ‘प्लुतप्रगृह्या अचि नित्यम्’ सूत्रेण प्रकृतिभावः भूत्वा ‘शम्भो इति’ रूपं सिद्धम् भवति।

(ङ) पञ्च ऋतवः
उत्तर:
‘पञ्च + ऋतवः’ इत्यत्र ‘ऋत्यकः’ इति सूत्रेण अकारस्य विकल्पेन ह्रस्व – भूत्वा ‘पञ्च ऋतवः’ इति रूपं सिद्धं भवति। विकल्पाभावे गुणे हते ‘पञ्चर्तवः’ रूपं भवति।

(च) ऋषि ऋणम्
उत्तर:
‘ऋषि + ऋणम्’ इत्यत्र ‘ऋत्यकः’ इति सूत्रेण इकारस्य विकल्पेन ह्रस्वः भूत्वा ‘ऋषि ऋणम्’ रूपं भवति, ह्रस्वाभावे यणादेशे कृते ‘ऋर्थ्यणम्’ रूपं भवति।

प्रश्न 29.
‘आ’ कुत्र डित् भवति कुत्र च अडित्-सोदाहरणं स्पष्टयत्।
उत्तर:
वाक्ये तथा स्मरणे अर्थे प्रयुक्तः आङ् अडित् (डित् भिन्नः) भवति। यथा-‘आ एवं नु मन्यसे। आ एवं किल तत्।’ अन्यत्र ‘आङ् ङित् भवति, यथाईषदुष्णम् = ओष्णम्।

प्रश्न 30.
चक्रि अत्र इत्यत्र ह्रस्वदशायां यणकार्यं कथं न भवति-स्पष्टयत।
उत्तर:
‘चक्रि अत्र’ इति ह्रस्वविधानदशायां तत्सामर्थ्यात् यण् न भवति। यतोहि ‘चक्री + अत्र’ इति मूलदशायां ‘इकोऽसवर्णे. इत्यादिसूत्रेण विकल्पेन ईकारस्य ह्रस्वे, सतिः चक्रि अत्र’ इति रूपं निर्मितम्। विकल्पाभावे ‘चक्री + अत्र’ इत्यत्रैव यण्कार्यं भवितुमर्हति।

प्रश्न 31.
‘शर्मा’ इत्यत्र मकारस्य द्वित्वं कथं भवति सूत्रव्याख्यानपूर्वकं स्पष्टयत।
उत्तर:
‘शर्मा’ इत्यत्र अचः परे रेफः वर्तते, तस्मात् परस्य मकारस्य “अचो रहाभ्यां द्वे’ इति सूत्रेण विकल्पेन द्वित्वं भवति। अस्य सूत्रस्यार्थः वर्तते यत्-अचः परे रेफः हुकारो वा भवति तस्मात् परस्य ‘यर् वर्णस्य विकल्पेन द्वित्वं भवति।।

प्रश्न 32.
‘न समासे’ वार्तिकं कस्याम् अवस्थायां कस्य निषेधं करोति? लिखत।
उत्तर:
‘न समासे’ इति वार्तिकं यदि समासदशायाम् असवर्ण; अच् पश्चात्। भवति तर्हि पदान्ते विद्यमानस्य इकः ह्रस्वस्य निषेधं करोति।

प्रश्न 33.
‘वृद्धिरेचि’ इति सूत्रं कस्य सूत्रस्य बाधकम्?
उत्तर:
‘वृद्धिचि’ इति सूत्रं ‘आद्गुणः’ इति सूत्रस्य बाधकमस्ति।

प्रश्न 34.
स्वस्वरूपावस्थायामेव विद्यमानता का कथिता?
उत्तर:
स्वस्वरूपावस्थायामेव विद्यमानता प्रकृतिभावः कथिता।।

प्रश्न 35,
वैयाकरणपरम्परायां ‘मुनित्रयः’ नाम्ना के प्रथिताः सन्ति?
उत्तर:
सूत्रकारः पाणिनिः, वार्तिककारः कात्यायनः भाष्यकारः पतञ्जलिश्चेति ”मुनित्रयः’ नाम्ना प्रथिताः सन्ति।

प्रश्न 36.
सूत्रस्य किं लक्षणं भवति?
उत्तर:

अल्पाक्षरमसन्दिग्धं सारवद्विश्वतो मुखम्।
अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः॥

प्रश्न 37.
सूत्रस्य कति भेदाः भवन्ति?
उत्तर:

संज्ञा च परिभाषा च विधिर्नियम एव च।।
अंतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम्॥

प्रश्न 38.
निम्नलिखितप्रत्याहारान्तर्गतान् वर्णान् लिखत।
उत्तर:
RBSE Solutions for Class 12 Sanskrit laxmanmedia

प्रश्न 39.
सन्धिः शब्दः कथं निष्पन्नः कश्चार्थः?
उत्तर:
सम् उपसर्गपूर्वकधारणार्थक ‘धा’ धातोः ‘कि’ प्रत्यये कृते सन्धिशब्दः निष्पन्नः भवति। तस्यार्थः अस्ति-वर्णानां मेलनम्।।

प्रश्न 40.
‘यणः प्रतिषेधो वाच्यः’ इति वार्तिकं कस्य निषेधः करोति?
उत्तर:
‘यणः प्रतिषेधो वाच्यः’ इति वार्तिकं ‘अलोऽन्त्यस्य’ सूत्रेण प्राप्तस्य यण वर्णस्य लोपस्य निषेधः करोति।।

प्रश्न 41.
‘एङ पदान्तादति’ इति सूत्रं कस्य सूत्रस्य बाधकमस्ति?
उत्तर:
‘एङः पदान्तादति’ इति सूत्रम् ‘एचोऽयवायावः’ इति सूत्रस्य बाधकमस्ति।

प्रश्न 42.
एडन्तस्य ‘गो’ पदस्यान्ते ओकारस्य स्थाने अवङ् आदेशः कस्य मतेन झ्वति?
उत्तर:
अवङ आदेशः स्फोटायन-ऋषेः मतेन भवति।

प्रश्न 43.
‘अहो ईशाः’ इत्यत्र प्रगृह्य संज्ञा भविते सति कस्य सूत्रस्य प्रवृत्तिः ने भवति?
उत्तर:
‘अहो ईशाः’ इत्यत्र प्रगृह्य संज्ञा भविते सति ‘एचोऽयवायावः’ इति सूत्रस्य प्रवृत्तिः न भवति।

प्रश्न 44.
‘टि’ संज्ञाविधायकं सूत्रं लिखत।
उत्तर:
‘अचोऽन्त्यादि टि”।

प्रश्न 45.
‘वृद्धि’ संज्ञाविधायकं सूत्रं लिखत।
उत्तर:
वृद्धिरादैच्

प्रश्न 46.
प्रगृह्य संज्ञायाः किं प्रयोजनम् अस्ति।
उत्तर:
यस्य प्रगृह्य संज्ञा भवति तस्य प्रकृतिभावः जायते अर्थात् स्वस्वरूपावस्थायामेव विद्यमानता भवति।।

प्रश्न 47.
‘गुण’ विधायकं सूत्रं लिखत।
उत्तर:
अदेङ्गुणः।

प्रश्न 48.
केषां स्वरवर्णानां वृद्धिसंज्ञा भवति?
उत्तर:
आ, ऐ, औ।

प्रश्न 49.
पाणिनीय व्याकरणस्य मूलग्रन्थस्य नाम किमस्ति?
उत्तर:
अष्टाध्यायी।

प्रश्न 50.
संहिता का कथ्यते?
उत्तर:
”परः सन्निकर्षः संहिता” अर्थात् वर्णानाम, अत्यन्तनिकटता ‘संहिता’। इति कथ्यते।

प्रश्न 51.
श्चुत्वसन्धेः सूत्रं लिखत।
उत्तर:
“स्तोः श्चुना श्चुः

प्रश्न 52.
ष्टुना ष्टुः’ इति सूत्रस्य व्याख्या कार्या।
उत्तर:
व्याख्यो-यदा स् त् थ् द् ध् न् इत्येते वर्णाः इत्येतेषां वर्णानां पूर्वं पशचाद् वा आयान्ति तदा स् त् थ् द् ध् न् इत्येतेषां वर्णानां स्थाने क्रमशः ष ट् ठ् ड् ढ् ण् इत्येते वर्णाः भवन्ति। यथा–रामस् + षष्ठः = रामष्षष्ठः।

प्रश्न 53.
“झलां जशोऽन्ते” इति सूत्रस्य व्याख्या कार्या।
उत्तर:
व्याख्या-पदान्ते झल् प्रत्याहारान्तर्गतवर्णानां (वगस्य 1, 2, 3, 4 वर्णानां श् ष् स् ह वर्णानां च) स्थाने जश्प्रत्याहारस्य (ज्, ब् ग् ड् द्) वर्णा:भवन्ति। यथावाक् + ईशः = वागीशः।।

प्रश्न 54.
‘खरि च’ इति सूत्रस्य व्याख्या कार्या।
उत्तर:
व्याख्या-खरि (वर्गस्य 1, 2, श् ष स्) परे झलां (वर्गस्य 1, 2, 3, 4, श् ष् स् ह) स्थाने चर् (क् च् छ् त् प् श् ष् स्) प्रत्याहारस्य वर्णाः भवन्ति।

यथा-
सद् + कारः = सत्कारः।

प्रश्न 55.
‘मोऽनुस्वारः’ सूत्रस्य व्याख्या कार्या।
उत्तर:
व्याख्या-पदान्तस्य मकारस्य स्थाने अनुस्वारः आदेशो भवति हलि परतः।

यथा-
हरिम् + वन्दे = हरिं वन्दे।।

प्रश्न 56.
निम्नलिखितसन्धिविषयकसूत्राणि लिखतष्टुत्व, जश्त्व, चव, अनुस्वार।
उत्तर:
RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 14 पितामही मिलिता 18

प्रश्न 57.
सत्वसन्धेः सूत्रं विलिख्य तस्य व्याख्या कार्य।
उत्तर:
सूत्रम्-‘विसर्जनीयस्य सः।’
व्याख्या-विसर्गस्य स्थाने सकारो भवति, खनि (वर्गस्य 1, 2, श् ष् स्) परतः।

यथा-
विष्णुः + त्राता = विष्णुस्त्राता।
रामः + च = रामश्च ।

प्रश्न 58.
‘‘वा शरि” सूत्रस्य व्याख्या कार्या।।
उत्तर:
व्याख्या-विसर्गस्य स्थाने विकल्पेन विसर्गादेशो भवति शरि (श् ष् स्) परे। यथा
हरिः + शेते = हरिःशेते (हरिश्शेते)
निः + सन्देहः = निःसन्देहः (निस्सन्देहः)

प्रश्न 59.
“अतो रोरप्लुतादप्लुते’ इति सूत्रस्यै व्याख्या कार्या।
उत्तर:
व्याख्या-हृस्वात् अकारात् उत्तस्य रोःरेफस्य स्थाने उकारादेशोभवति ह्रस्व अकारे परतः। यथा-.
कः + अपि = कोऽपि
रामः + अवदत् = रामोऽवदत्

प्रश्न 60.
‘शि च” इति सूत्रस्य सोदाहरणं व्याख्या कार्या।
उत्तर:
व्याख्या-हृस्वात् अकारात् उत्तरस्य रोः रेफस्य स्थाने उकारादेशो भवति हशि (वर्गस्य 3, 4, 5, ह, य, व, र, ल्)परतः।

उदाहरणं यथा-
शिवः + वन्द्यः = शिवो वन्द्य।
नमः + नमः = नमो नमः।

Post a Comment

0 Comments

Language Translate